(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.62. अध्यायः 062
Mahabharata - Adi Parva - Chapter Topics
भारतप्रशंसा॥ 1 ॥ तच्छ्रवणादिफलकथनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text

जनमेजय उवाच। 1-62-0x(298)(2444)
कथितं वै समासेन त्वया सर्वं द्विजोत्तम।
महाभारतमाख्यानं कुरूणां चरितं महत्॥ 1-62-1(2445)
कथां त्वनघ चित्रार्थां कथयस्व तपोधन।
विस्तरश्रवणे जातं कौतूहलमतीव मे॥ 1-62-2(2446)
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ 1-62-3(2447)
न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः।
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः॥ 1-62-4(2448)
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः।
प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम्॥ 1-62-5(2449)
कथं नागायुतप्राणो बाहुशाली वृकोदरः।
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम॥ 1-62-6(2450)
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः।
शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा॥ 1-62-7(2451)
कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा।
अन्वयुस्ते नरव्याघ्रा बाध्यमाना दुरात्मभिः॥ 1-62-8(2452)
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्।
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः॥ 1-62-9(2453)
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः।
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः॥ 1-62-10(2454)
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन।
यद्यच्च कृतवन्तस्ते तत्रतत्र महारथाः॥ 1-62-11(2455)
वैशम्पायन उवाच। 1-62-12x(299)
क्षणं कुरु महाराज विपुलोऽयमनुक्रमः।
पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः॥ 1-62-12(2456)
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥ 1-62-13(2457)
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्।
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा॥ 1-62-14(2458)
`उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्।
संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप॥ 1-62-15(2459)
अध्यायानां सहस्रे द्वे पर्वणां शतमेव च।
श्लोकानां तु सहस्राणि नवतिश्च दशैव च।
ततोऽष्टादशभिः पर्वैः संगृहीतं महर्षिणा'॥ 1-62-16(2460)
य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः।
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्॥ 1-62-17(2461)
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्।
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्॥ 1-62-18(2462)
अस्मिन्नर्थश्च कामश्च निखिलेनोपदेक्ष्यते।
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी॥ 1-62-19(2463)
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्।
कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वाऽर्थमश्नुते॥ 1-62-20(2464)
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्।
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः॥ 1-62-21(2465)
मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा।
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा॥ 1-62-22(2466)
महीं विजयते राजा शत्रूंश्चापि पराजयेत्।
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्॥ 1-62-23(2467)
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा।
वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम्॥ 1-62-24(2468)
धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम्।
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥ 1-62-25(2469)
`धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्।
इदं हि ब्राह्मणैर्लोके आख्यातं ब्राह्मणेष्विह'॥ 1-62-26(2470)
संप्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे।
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः॥ 1-62-27(2471)
भरतानां महज्जन्म शृण्वतामनसूयताम्।
नास्ति व्याधिभयं तेषां परलोकभयं कुतः॥ 1-62-28(2472)
शरीरेण कृतं पापं वाचा च मनसैव च।
सर्वं संत्यजति क्षिप्रं य इदं शृणुयान्नरः॥ 1-62-29(2473)
धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च।
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा॥ 1-62-30(2474)
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्॥ 1-62-31(2475)
सर्वविद्यावदातानां लोके प्रथितकर्मणाम्।
य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन्॥ 1-62-32(2476)
श्रावयेत महापुण्यं तस्य धर्मः सनातनः।
कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः॥ 1-62-33(2477)
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत्।
योऽधीते भारतं पुम्यं ब्राह्मणो नियतव्रतः॥ 1-62-34(2478)
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते।
विज्ञेयः स च वेदानां पारगो भारतं पठन्॥ 1-62-35(2479)
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तथा।
कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा॥ 1-62-36(2480)
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते।
अनेकजननो यत्र कार्तिकेयस्य संभवः॥ 1-62-37(2481)
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते।
सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः॥ 1-62-38(2482)
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु।
धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम्॥ 1-62-39(2483)
श्रावयेद्ब्राह्मणाञ्श्राद्धे यश्चेमं पादमन्ततः।
अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह॥ 1-62-40(2484)
अह्ना यदेनः क्रियते इन्द्रियैर्मनसाऽपि वा।
ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत्॥ 1-62-41(2485)
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते।
भरतानां महज्जन्म महाभारतमुच्यते॥ 1-62-42(2486)
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते।
भरतानां महज्जन्म महाभारतमुच्यते॥ 1-62-43(2487)
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः।
त्रिभिर्वर्षैर्महाभागः कृष्णद्वैपायनोऽब्रवीत्॥ 1-62-44(2488)
नित्योत्थितः शुचिः शक्तो महाभारतमादितः।
तपोनियममास्थाय कृतमेतन्महर्षिणा॥ 1-62-45(2489)
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम्।
कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम्॥ 1-62-46(2490)
श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः।
सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः॥ 1-62-47(2491)
नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि।
निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात्॥ 1-62-48(2492)
न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः।
यां श्रुत्वैवं महापुण्यमितिहासमुपाश्नुते॥ 1-62-49(2493)
शृण्वञ्श्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम्।
नरः फलमवाप्नोति राजसूयाश्वमेधयोः॥ 1-62-50(2494)
यथा समुद्रो भगवान्यथा मेरुर्महागिरिः।
उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते॥ 1-62-51(2495)
इदं हि वेदैः समितं पवित्रमषि चोत्तमम्।
श्राव्यं श्रुतिसुखं चैव पावनं शीलवर्धनम्॥ 1-62-52(2496)
य इदं भारतं राजन्वाचकाय प्रयच्छति।
तेन सर्वा मही दत्ता भवेत्सागरमेखला॥ 1-62-53(2497)
पारिक्षित कथां दिव्यां पुण्याय विजयाय च।
कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम्॥ 1-62-54(2498)
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः।
महाभारतमाख्यानं कृतवानिदमद्भुतम्॥ 1-62-55(2499)
शृणु कीर्तयतस्तन्म इतिहासं पुरातनम्॥ ॥ 1-62-56(2500)

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि द्विषष्टितमोऽध्यायः॥ 62 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-62-4 अवध्यान् भीष्मद्रोणादीन्॥ 1-62-6 क्रोधं धृतवान् निरुद्धवान्॥ 1-62-10 अस्यन् शरान् क्षिपन् स कथं क्लेशं सोढवानित्यनुषज्ज्यते॥ 1-62-18 ऋषिभिर्मन्त्रैस्तद्द्रष्टृभिर्वा संस्तुतं समं स्तुतं वा॥ 1-62-19 परिनैष्ठिकी परिनिष्ठा मोक्षस्तदुचिता॥ 1-62-20 अनास्तिकान् नास्तिका न भवन्तीत्यनास्तिकास्तान्॥ 1-62-23 पुंसवनं पुमांसः सूयन्तेऽस्मिन् श्रुते॥ 1-62-24 महिषी पट्टराज्ञी॥ 1-62-47 सर्वथा साधुनाऽसाधुना वा वर्त्मना वर्तमाना अपि कृताकृतैः क्रमेण पापपुण्यैस्ते न शोच्याः। एतच्छ्रवणादेव सर्वप्रत्यवायपरिहारो भवतीति भावः॥ 1-62-49 स्वर्गादप्येतच्छ्रवणं सुखकरं मुक्तिहेतुत्वादिति भावः॥ 1-62-50 श्राद्धः श्रद्धावान्॥ 1-62-52 श्राव्यमर्थतो रम्यम्॥ 1-62-55 सदोत्थायी सदोद्युक्तः॥ द्विषष्टितमोऽध्यायः॥ 62 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.